रत्नाकरः किं कुरुते स्वरत्नैः...

विकिसूक्तिः तः

सुभाषितम्

रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ॥




तात्पर्यम्

उदधिः (स्वस्मिन् स्थितैः) रत्नैः किं करोति ? (स्वार्थाय नोपयुङ्क्ते)। विन्ध्याचलः गजैः किमपि प्रयोजनं न साधयति। मलयपर्वताय स्वस्य चन्दनस्य न कोऽपि उपयोगः। उत्तमानां ऐश्वर्याणि अन्येषां प्रयोजनायैव भवन्ति।