पण्डिते हि गुणाः सर्वे...

विकिसूक्तिः तः

सुभाषितम्

पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः।
तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥

paṇḍite hi guṇāḥ sarve mūrkhe doṣāśca kevalāḥ।
tasmānmūrkhasahasrebhyaḥ prājña eko viśiṣyate ॥

पदच्छेदः

पण्डिते, हि, गुणाः, सर्वे, मूर्खे, दोषाः, च, केवलाः, तस्मात्, मूर्खसहस्रेभ्यः, प्राज्ञः, एकः, विशिष्यते ।


तात्पर्यम्

पण्डितेषु सर्वे गुणाः समन्विताः भवन्ति । एवं मूर्खेषु सर्वे दोषाः समन्विताः भवन्ति । अतः सहस्रमूर्खाणाम् अपेक्षया एकः विद्वान् विशिष्टः भवति ।