सिंहः शिशुरपि निपतति...

विकिसूक्तिः तः

सुभाषितम्

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववता न खलु वयस्तेजसो हेतुः ॥

siṃhaḥ śiśurapi nipatati madamalinakapolabhittiṣu gajeṣu ।
prakṛtiriyaṃ sattvavatā na khalu vayastejaso hetuḥ ॥

पदच्छेदः

सिंहः, शिशुः, अपि, निपतति, मदमलिनकपोलभित्तिषु, गजेषु, प्रकृतिः, इयं, सत्त्ववता, न, खलु, वयः, तेजसः, हेतुः ।


तात्पर्यम्

मदेन उन्मत्तं गजं दृष्ट्वा सिंहस्य शिशुः अपि तस्योपरि आक्रमणं कर्तुम् उद्युक्तः भवति । पराक्रमिणाम् एष एव स्वभावः प्रकृतितः प्राप्तो भवति । वयः तेषां पराक्रमस्य कारणं न भवति ।

"https://sa.wikiquote.org/w/index.php?title=सिंहः_शिशुरपि_निपतति...&oldid=16775" इत्यस्माद् प्रतिप्राप्तम्