साधनं सुमहद्यस्य...

विकिसूक्तिः तः

सुभाषितम्

साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालिता भ्रुवम् ॥

sādhanaṃ sumahadyasya yannānyasya vilokyate ।
tasya dhīśālinaḥ ko:'nyaḥ ahetārālitā bhruvam ॥

पदच्छेदः

साधनं, सुमहत्, यस्य, यत्, न, अन्यस्य, विलोक्यते, तस्य, धीशालिनः, कः, अन्यः, सहेतारालिता, भ्रुवम् ।


तात्पर्यम्

यस्य सेना अतीव महती, तस्याः पुरस्तात् कस्यापि सेना भवतु, सा न्यूना एव । तादृशस्य बुद्धिमतः पराक्रमं को वा सहेत ? सः बहु बलवान् भवति इत्यर्थः ।

"https://sa.wikiquote.org/w/index.php?title=साधनं_सुमहद्यस्य...&oldid=16778" इत्यस्माद् प्रतिप्राप्तम्