तेजस्विमध्ये तेजस्वी...

विकिसूक्तिः तः

सुभाषितम्

तेजस्विमध्ये तेजस्वी दवीयानपि गम्यते ।
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥

tejasvimadhye tejasvī davīyānapi gamyate ।
pañcamaḥ pañcatapasastapano jātavedasām ।।

पदच्छेदः

तेजस्विमध्ये, तेजस्वी, दवीयान्, अपि, गम्यते, पञ्चमः, पञ्चतपसः, तपनः, जातवेदसाम् ।


तात्पर्यम्

तेजस्विनां गणनासमये, यदि एकः दूरे अस्ति, तथापि तस्य गणना भवति । चतुर्णाम् अग्नीनां गणनासमये पञ्चमत्वेन बहुदूरं स्थितः सूर्यः अपि गण्यते ।