तीव्रोष्णदुर्विषय...

विकिसूक्तिः तः

सुभाषितम्

तीव्रोष्णदुर्विषयहवीर्यभृतः परेषां
तेजस्विनो न गणयन्ति वपुर्महत्त्वम् ।
यत्पद्मरागशकलाकृतिरद्रितुङ्गं
कार्त्स्न्येन भस्मयति काष्ठचयं स्फुलिङ्गः ॥

tīvroṣṇadurviṣayahavīryabhṛtaḥ pareṣāṃ
tejasvino na gaṇayanti vapurmahattvam ।
yatpadmarāgaśakalākṛtiradrituṅgaṃ
kārtsnyena bhasmayati kāṣṭhacayaṃ sphuliṅgaḥ ।।

पदच्छेदः

तीव्रोष्णदुर्विषयहवीर्यभृतः, परेषां, तेजस्विनः, न, गणयन्ति, वपुः, महत्त्वम्, यत्, पद्मरागशकलाकृतिः, अद्रितुङ्गं, कार्त्स्न्येन, भस्मयति, काष्ठचयं, स्फुलिङ्गः ।


तात्पर्यम्

तीव्रम् उष्णम् असह्यं च वीर्यं ये तेजस्विनः धरन्ति, ते शत्रूणां शरीरवैशाल्यं न गणयन्ति । वह्नेः कणः बहु लघु चेदपि महान्तं पर्वतसदृशमपि तृणराशिं दहति ।

"https://sa.wikiquote.org/w/index.php?title=तीव्रोष्णदुर्विषय...&oldid=16806" इत्यस्माद् प्रतिप्राप्तम्