शुनः पुच्छमिव...

विकिसूक्तिः तः

सुभाषितम्

शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना।
न गुह्यगोपने शक्त्तं न च दंशनिवारणे ॥

śunaḥ pucchamiva vyarthaṃ jīvitaṃ vidyayā vinā।
na guhyagopane śakttaṃ na ca daṃśanivāraṇe ॥

पदच्छेदः

शुनः पुच्छम् इव व्यर्थं जीवितं विद्यया विना न गुह्य-गोपने शक्त्तं न च दंश-निवारणे ।


तात्पर्यम्

यः विद्याम् न अध्येति तस्य जीवितं सफलं न भवति। तस्य जीवितं कुक्कुरस्य पुच्छम् इव भवति। कुक्कुरस्य पुच्छेन तस्य गुप्ताङ्गस्य आच्छादनं कर्तुं न शक्य़ते, अपि च कीटादीनां दंशनं च न वारयति ।


आङ्ग्लार्थः

A man’s life without education is as wasteful as a tail of a dog. The tail of a dog can neither hide its private parts nor avoid it being bitten by insects.

"https://sa.wikiquote.org/w/index.php?title=शुनः_पुच्छमिव...&oldid=16817" इत्यस्माद् प्रतिप्राप्तम्