धनमस्तीति वाणिज्यं...

विकिसूक्तिः तः

सुभाषितम्

धनमस्तीति वाणिज्यं भूमिरस्तीति कर्षणम् ।
सेवा न किञ्चिदस्तीति भिक्षा नैव च नैव च ॥

सुभाषितरत्नभाण्डागारम् १५३/२१

dhanamastīti vāṇijyaṃ bhūmirastīti karṣaṇam ।
sevā na kiñcidastīti bhikṣā naiva ca naiva ca॥

पदच्छेदः

धनम्, अस्ति, इति, वाणिज्यम्, भूमिः, अस्ति, इति, कर्षणम्, सेवा, न, किञ्चित्, अस्ति, इति, भिक्षा, न, एव, च, न, एव, च।


तात्पर्यम्

यदि पुरुषस्य समीपे पर्याप्तं धनम् अस्ति तर्हि सः वाणिज्यं कुर्यात्, यदि किञ्चित् भूमिः अस्ति तर्हि कृषिकार्यं कुर्यात्, यदि किञ्चिद् अपि धनं नास्ति तर्हि सेवाकार्यं (वृत्तिम्) कुर्यात्, परन्तु भिक्षां कृत्वा जीवनं न यापयेत् ।


आङ्ग्लार्थः

If one has wealth, he should indulge in business (for a living). If one has land, he should engage in agricultural acitivity. If one has nothing, he should get an employment. But (under any circumstances) one should never beg !

"https://sa.wikiquote.org/w/index.php?title=धनमस्तीति_वाणिज्यं...&oldid=16995" इत्यस्माद् प्रतिप्राप्तम्