यं वैदिका मन्त्रदृशः पुराणाः...

विकिसूक्तिः तः

यं वैदिका मन्त्रदृशः पुराणाः...


यं वैदिका मन्त्रदृशः पुराणाः
इन्द्रं यमं मातरिश्वानमाहुः ।
वेदान्तिनो निर्वचनीयमेकम्
यं ब्रह्मशब्देन विनिर्दिशन्ति ॥१॥

शैवा यमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरिति स्तुवन्ति ।
बुद्धस्तथार्हन्निति बौद्धजैनाः
सत्श्री अकालेति च सिक्खसन्तः ॥२॥

शास्तेति केचित् प्रकृतिः कुमारः
स्वामीति मातेति पितेति भक्त्या
यं प्रार्थयन्ते जगदीशितारं
स एक एव प्रभुरद्वितीयः ॥३॥