बालचन्दिर लोकसुन्दर...

विकिसूक्तिः तः

बालचन्दिर लोकसुन्दर...


बालचन्दिर लोकसुन्दर
एहि गगनविभूषण ।
एहि सत्वरम् एहि शशधर
एहि एहि मदन्तिकम् ॥

कुत्र गच्छसि कुत्र निवससि
ब्रूहि किं तव वाहनम् ।
चलसि नित्यं नियतगत्या
मासि किं तव वेतनम् ॥

लीयसे त्वं वर्धसे त्वं
हससि किं खलु कारणम् ।
निरवलम्बं सञ्चरन्नपि
पतसि न त्वं कथमिदम् ॥

कथमवाप्ता कान्तिरेषा
ह्लादिनी सा कौमुदी ।
लीयसे त्वं कुत्र दिवसे
रञ्जकं तव जीवनम् ॥




"https://sa.wikiquote.org/w/index.php?title=बालचन्दिर_लोकसुन्दर...&oldid=17722" इत्यस्माद् प्रतिप्राप्तम्