इष्टापूर्तं मन्यमाना...

विकिसूक्तिः तः

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यत् श्रेयो वेदयन्ते प्रमूढाः । - मुण्डकोपनिषत् १-२-१०

इष्टापूर्तं कर्मैव ये वरिष्ठं मन्यन्ते, इतो अन्यत् श्रेयः आत्मतत्त्वं ये न मन्यन्ते, ते प्रमूढाः ॥

श्रौतानि स्मार्तानि इति शास्रीयकर्माणि द्वेधा विभक्तानि सन्ति । इष्टम् इति श्रौतं कर्म, पूर्तम् इति स्मार्तं कर्म उच्यते ॥
अग्निहोत्रं तपः सत्यं वेदानां परिपालनम् ।
आतिथ्यं वैश्वदेवं च ‘इष्टम्’ इत्यभिधीयते ॥
अग्निहोत्रानुष्ठानम्, तपः, सत्यवचनम्, वेदाध्ययनम्, अध्यापनम्, आतिथ्यम्, वैश्वदेवं- च इतीदम् इष्टम् उच्यते ॥

वापीकूपतटाकादिदेवतायतनानि च ।
अन्नप्रदानमारामः ‘पूर्तम्’ इत्यभिधीयते ॥
वापी, कूपः, तटाका, देवालयः, अन्नदानम्, आरामनिर्माणम् इत्येतत् पूर्तम् उच्यते ॥

एतानि इष्टापूर्तकर्माण्येव वरिष्ठानि इति, मुक्तिरिति, जन्मसार्थकसाधनमिति च ये मन्यन्ते ते प्रमूढा एव भवन्ति ॥