तद्धेदं तर्हि अव्याकृतमासीत्...

विकिसूक्तिः तः

तद्धेदं तर्हि अव्याकृतमासीत्, तन्नामरूपाभ्यामेव व्याक्रियत । - बृहदारण्यकोपनिषत् १-४-७

तदिदं जगत् तदा सृष्टेः पूर्वम् अव्याकृतमेव आसीत्, अनन्तरम् नामरूपाभ्यां व्याकृतम् अक्रियत ।

इदानीं दृश्यमानस्य अस्य विश्वस्य ‘व्याकृतम्’ इति नामधेयम् । सृष्टेः पूर्वम् इदम् ‘अव्याकृतम्’ आसीत् ।
व्याकृतं नाम वि + आ+ कृतम्; वि = विविधनामभिः, रूपैः, क्रियाभिश्च; आ=समन्तात् विविक्ततया सुस्पष्टतया;
कृतम्= सृष्टम् । व्याकृतस्य सर्वस्यापि वस्तुनः विलक्षणानि नामानि, आकाराः, वर्णाश्च विद्यन्ते एव ॥

इदं व्याकृतं विश्वं सृष्टेः पूर्वम् एवम् विविक्ततया, भिन्नभिन्नतया नासीत्, किं तु बीजरूपेण आसीत्, अत
एव ‘अव्याकृत’म् इति तस्य नाम । इदम् अव्याकृतं हि अविद्याकल्पितम् आभासरूपम् । आत्मन्येव कल्पितं
सत् गूढमासीत् । तदेव इदानीं व्याकृतप्रपञ्चत्वेन अवभासते । इदं व्याकृतं जगत् इदानीमपि परमार्थदृष्ट्या
अयमात्मैव अस्ति ॥