तान् ह स ऋषिरुवाच...

विकिसूक्तिः तः

तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । - प्रश्नोपनिषत् १-२

ब्रह्मविद्याचार्यः पिप्पलादमहर्षिः तान् सुकेशाभारद्वाजादीन् जिज्ञासून् प्रति 'यूयं तपसा ब्रह्मचर्येण श्रद्धया च पुनः
संवत्सरम् एकम् अस्मासु संवसत' इत्युक्तवान् ।

ब्रह्मविद्यां सम्पादयितुम् आत्मनः सकाशम् आगतेभ्यः सर्वेभ्यः शिष्येभ्यः अविचार्य उपदेशं न कुर्यादाचार्यः । प्रप्रथमतः
ते शिष्याः सम्यक् परीक्ष्याः, अनन्तरमेव तेभ्यः शिष्येभ्यः ब्रह्मतत्त्वम् उपदिशेत् आचार्यः । यतो हि जिज्ञासूनां चित्तशुद्ध्यभावे
उपदिष्टापि ब्रह्मविद्या न अनुभवम् आरोहति ॥

ब्रह्मविद्यापेक्षिणः साधकाः तपः ब्रह्मचर्यं च अनुतिष्ठेयुः । तपो नाम इन्द्रियनिग्रहः । सत्यवचनम्, अहिंसा, जपादयश्च ।
ब्रह्मचर्यं हि प्रधानं साधनम् । सद्गुरुसेवापरायणः सन् सद्गुरुसेवया सद्गुरून् सन्तोष्य अनन्तरं तेभ्यः ब्रह्मविद्योपदेशश्रवणं
कुर्यात् साधकः । सद्गुरुभक्त्या तपसा च विना न ब्रह्मज्ञानं लभ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=तान्_ह_स_ऋषिरुवाच...&oldid=16430" इत्यस्माद् प्रतिप्राप्तम्