तेभ्यो देवेभ्यः हैतदक्षरमुवाच...

विकिसूक्तिः तः

तेभ्यो देवेभ्यः हैतदक्षरमुवाच ‘द’ इति, मनुष्येभ्यः हैतदक्षरमुवाच ‘द’ इति,
असुरेभ्यः हैतदक्षरमुवाच ‘द’ इति । - बृहदारण्यकोपनिषत् ५-२-२

पिता प्रजापतिः तेभ्यः देवेभ्यः मानवेभ्यः असुरेभ्यश्च समानतया एकमेव ‘द’ कारम् उपदिष्टवान् ।

प्रजापतिब्रह्मणः देवाः, मनुष्याः, असुराः इति त्रयः पुत्राः । ते पितरम् उपगम्य 'अस्मभ्यं हितोपदेशं कुरू'
इति प्रार्थितवन्तः । संवत्सरमेकं ब्रह्मचर्यव्रतम् अनुष्ठीयताम् – इति पित्रा आज्ञप्ताः ते त्रयोऽपि तथैव कृत्वा
पुनः उपदेशार्थम् आगतवद्भ्यः तेभ्यः द द द इत्येव पिता उपदिदेश । किं मम उपदेशस्य अर्थः ज्ञातो वा?
इति पृष्टाः ते त्रयोऽपि पुत्राः ‘सत्यम्’ इति प्रत्युत्तरितवन्तः ॥

विषयानुभोगनिरताः देवताः दमम्, लोभिनः स्वार्थिनश्च मानवाः दानम्, क्रूरिणः हिंसाचाराश्च असुराः
दयाम् इति प्रजापत्युपदेशस्य तात्पर्यं समधिगतवन्तः । समानेऽप्युपदेशे स्वस्वसंस्कारानुगुण्येन तात्पर्यग्रहणं
भवति ॥