न कर्मणा न प्रजया...

विकिसूक्तिः तः

न कर्मणा न प्रजया धनेन, त्यागेनैके अमृतत्वम् आनशुः। - कैवल्योपनिषत् १-२

कर्मणा वा प्रजया वा धनेन वा अमृतत्वं न प्राप्यते । किं तु एके ज्ञानिनः त्यागेन अमृतत्वं
प्राप्तवन्तः ॥

अमृतत्वाय त्याग एव एकं साधनम् इति धैर्येण प्रतिपादयति अयं मन्त्रः । वैदिकसम्प्रदाये अयं
मन्त्रः यतिवन्दनमन्त्रः इति सुप्रसिद्धः जनप्रियश्च ॥

जपपूजापारायणहोमदानध्यानादीनि कर्माणि । एतेभ्यः इष्टफलानि लभ्यन्ते । कर्मभ्यः इष्टफलानि
लभ्यन्ते । कर्मभ्यः अभ्युदयफलानि केवलानि लभ्यन्ते न तु मुक्तिः । सत्पुत्रेभ्यश्च गृहस्थानाम्
अमृतत्वं न लभ्यते । अथ, धनम् ! धनेन हि अद्यतनकाले सर्वं सम्पाद्येत । धनेन असाध्यमिति
न किञ्चिदस्ति । अपि तु स्वतस्सिद्धः स्वाभाविको मोक्षः धनेनापि न लभ्यः ॥

तर्हि मोक्षस्य किं वा साधनम् ? इति चेत् । त्यागः, त्यागो नाम अध्यासस्य त्यागः । अहङ्कारममकारयोरेव
त्यागः । अविद्याहानिरेव त्यागः । आत्मज्ञानमेव नूनं त्यागः । त्यागेनैव मुक्तिः ॥

"https://sa.wikiquote.org/w/index.php?title=न_कर्मणा_न_प्रजया...&oldid=16346" इत्यस्माद् प्रतिप्राप्तम्