नान्यः पन्था विद्यतेऽयनाय ॥

विकिसूक्तिः तः

नान्यः पन्था विद्यतेऽयनाय ॥ (यजुर्वेदः ३१-१८)[सम्पाद्यताम्]

क्रमणाय अन्यः मार्गः एव न विद्यते ।

सामान्यतः साधकानां लक्ष्यं भवति आनन्दः, आत्मसाक्षात्कारश्च । स्वविश्वासानुसारं स्वधर्मानुसारम् इदं लक्ष्यं प्राप्तुं विभिन्नाः मार्गाः भवन्ति । येन केनापि यः कोपि मार्गः अनुसर्तुं शक्यः इति बहुभिः चिन्त्यते । किन्तु तथा विविधाः मार्गाः न विद्यन्ते । विद्यमानः मार्गः एकः एव इति स्पष्टं घोषयति अयं यजुर्वेदीयः मन्त्रः । कः अयम् अद्वितीयः मार्गः ? सः अस्ति मानवीयः मार्गः । अनुकम्पः, अन्यस्य जीविनः सुखदुःखेषु स्पन्दनसामर्थ्यं मानवानामेव वैशिष्ट्यम् । तदर्थमेव मानवशरीरे विशेषसामर्थ्ययुतं मस्तिष्कं विद्यते । अहिंसा, सत्यं, निष्कपटता, इन्द्रियनिग्रहः, असङ्ग्रहः, सरलता इत्यादयः अनुकम्पस्य विविधानि मुखानि । आनन्ददायकाः सन्तोषकराश्च एते गुणाः अन्येषु भवन्तु इति वयम् अपेक्षामहे । अन्ये अपि अस्माभिः इदमेव अपेक्षन्ते खलु ! दत्त्वा प्राप्नुयाम !! अन्यः मार्गः न विद्यते !!!