प्राणस्येदं वशे सर्वं...

विकिसूक्तिः तः

प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् । - प्रश्नोपनिषत् २-१३

इदं सर्वं जगत् प्राणस्य वशे एव वर्तते । स्वर्गस्थं सर्वमपि प्राणस्य एव वशे भवति ॥

इदं कृत्स्नं विश्वं प्राणादेव जनित्वा, प्राणे एव स्थित्वा, प्राणे एव लीयते । अस्यैव प्राणस्य हिरण्यगर्भः,
विराटपुरुष, सूत्रात्मा इति च नामान्तराणि ॥

इदं विश्वम् आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकं च इति त्रेधा विभज्यते । आध्यात्मिकप्रपञ्चो
नाम शरीरम्, इन्द्रियाणि, मनः, बुद्धिः, अहंकारः, प्राणश्च । अस्यैव हि कार्यकरणसङ्घातः इति नाम ।
इदं सर्वं प्राणादेव जातं सत् प्राणेनैव जीवति । सकलानि करणानि प्राणेनैव आत्मवन्ति भवन्ति ॥

आधिभौतिकप्रपञ्चो नाम पृथिव्यादयः आकाशान्ताः शब्दादिविषयाश्च । सर्वस्यास्य आश्रयभूतो वायुः ।
आधिदैविकप्रपञ्चे ग्रहनक्षत्रदेवताः पितरश्च अन्तर्गच्छन्ति । हिरण्यगर्भो हि सर्वस्यास्य आधारभूतः ।
अस्य उपासनात् ब्रह्मलोकप्राप्तिरेव फलम् ॥