प्रारभ्यते न खलु...

विकिसूक्तिः तः

सुभाषितम्

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥




तात्पर्यम्

अधमाः क्लेशः भवेत् इति भयेन कार्यं न आरभन्ते एव । मध्यमाः कार्यम् आरभन्ते चेदपि विघ्नानाम् उपस्थितौ कार्यं परित्यजन्ति । किन्तु पौनःपुन्येन विघ्नाः उपस्थिताः भवन्ति चेदपि उत्तमाः आरब्धं कार्यं कदापि न त्यजन्ति ।

"https://sa.wikiquote.org/w/index.php?title=प्रारभ्यते_न_खलु...&oldid=14954" इत्यस्माद् प्रतिप्राप्तम्