महाभारतसूक्तयः (तपोवनम्)

विकिसूक्तिः तः

ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह।
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्॥ आदि.७०/३६॥

ॠचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु॥ आदि.७०/३७॥

तत्र तत्र च विप्रेन्द्रान् नियतान् संशितव्रतान्।
जपहोमपरान् विप्रान् ददर्श परवीरहा॥ आदि.७०/४७॥

वसिष्ठ भृग्वत्रिसमैस्तापसैरुपशोभितम्।
नियतैः संयाताहारैर्दमशौच समन्वितैः॥ वन.६४/६२॥

अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः॥ वन.६४/६३॥

वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्॥ वन.६४/६४॥

नानामृगगणैर्जुष्टं शाखामृगगणायुतम्।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत्॥ वन.६४/६५॥