यत्रैतत् पुरुषः स्वपिति...

विकिसूक्तिः तः

यत्रैतत् पुरुषः स्वपिति नाम, सता सोम्य तदा
सम्पन्नो भवति । - छान्दोग्योपनिषत् ६-८-१

यदा अयं जीवः ‘स्वपिति’ इति कथ्यते, तदा, हे
सोम्य अयं सत् स्वरूपे स्वात्मनि सम्पन्नो भवति ।

संस्कृतभाषायां ‘स्वपिति’ इति क्रियापदम् अस्ति ।
‘स्वपिति’ इति ‘निद्रां करोति’ इत्यर्थः । सुप्तं जीवं
दृष्ट्वा इतरे जनाः ‘अयं स्वपिति’ इति वदन्ति । ‘स्वम्
अपीतो भवति इति ‘स्वपिति’ इत्युच्यते । स्वापकाले
जीवात्मा सर्वसंसारबन्धनरहितो भवति खलु ?

तर्हि सुप्तः पुरुषः तदा निद्राकाले कुत्र वर्तते ? कथं वर्तते ?
कस्मिन् सम्पन्नो भवति ? इत्यादीनां प्रश्नानाम् उत्तराणि
वदति अयं मन्त्रः । सुषुप्तिकाले जीवः सता सम्पन्नो भवति ।
‘सत्’ इति ‘शुद्धा सत्ता’ इत्यर्थः । सुषुप्तः मानवः तदा सर्वान्
बाह्यान् सांसारिक धर्मान् त्यक्त्वा स्वस्वरूपे एव वर्तते ।
इदमेव अस्य नैजं स्वरूपं परमार्थस्वरूपं च । सत् चित्
आनन्दः एव अस्य स्वरूपम् । सुषुप्तौ स्वस्मिन् सत्स्वरूपे
एव एषः जीवः सम्पद्यते इत्यर्थः ॥