यथा अश्मानम् आखणम्...

विकिसूक्तिः तः

यथा अश्मानम् आखणम् ऋत्वा विध्वंसते, एवं हैव स विध्वंसते य एवंविदि पापं कामयते,
यश्च एनमभिदासति, स एषः अश्माखणः॥- छान्दोग्योपनिषत् १-२-८

यथा यः कश्चित् कठिनम् अश्मानं कराभ्यां खण्डयितुं प्रवृत्तः स्वयमेव विध्वंसते, एवमेव प्राणोपासकस्य
उपद्रवकर्ता मूर्खः स्वयमेव विनश्यति; यस्मात् अयं प्राणोपासकः
कठिनाश्मवत् वर्तते ॥

देवतोपासकाः स्वेष्टदेवतोपासनेन तादृशदेवतानुग्रहपात्राणि भवन्ति । एतेषाम् उपासकानां निग्रहानुग्रहसामर्थ्यं
विद्यते । दिव्यशक्तिमन्तश्च एते ध्यायिनः ॥

लौकिकसम्पदा आढ्याः श्रीमन्तः, अधिकारिणः, राजमहाराजादयः स्वीयसम्पदा सामान्यान् जनान् स्वाधीनान्
कुर्युः, न तु देवोपासकान् वा प्राणोपासकान् वा एते आढ्याः स्वीयसम्पदा चालयेयुः । यतः लौकिकसम्पदोऽपि
उपासनशक्तिः गरीयसी । उपासनेन हि सर्वा सम्पत् लभ्येत, न तु मुक्तिर्लभ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=यथा_अश्मानम्_आखणम्...&oldid=16377" इत्यस्माद् प्रतिप्राप्तम्