स प्राणम् असृजत...

विकिसूक्तिः तः

स प्राणम् असृजत, प्राणात् श्रद्धां खं वायुः ज्योतिः आपः पृथिवी इन्द्रियं मनः ।
अन्नम् , अन्नात् वीर्यं तपो मन्त्राः कर्म लोकाः लोकेषु नाम च ॥ - प्रश्नोपनिषत् ६-४

सः पुरुषः प्राणम् असृजत, प्राणात् श्रद्धाम् , आकाशं, वायुम्, ज्योतिः, आपः पृथिवीम्, इन्द्रियं,
मनश्च असृजत । अन्नम् सृष्ट्वा, अन्नात् वीर्यम्, तपः, मन्त्रान्, कर्म, लोकान् सृष्ट्वा, लोकेषु नाम सृष्टवान् ।

परमात्मा स्वतः निष्कलः इति उपनिषदः प्रतिपादयन्ति । निष्कलो नाम षोडशाकलासम्बन्धरहितः ।
कास्ताः षोडश कलाः ? इति पृष्टे प्रश्नोपनिषत् दर्शयति । ताः षोडश कलास्तु एताः –
१)हिरण्यगर्भः प्राणः, सर्वप्राणिकरणात्मा अयम् २) श्रद्धा, शास्रीयधर्मानुष्ठानसमये अपेक्ष्यः धर्मः
३) आकाशः ४) वायुः ५) तेजः ६) आपः ७) भूमिः ८) ज्ञानेन्द्रिय कर्मेन्द्रियाणि ९) मनः
१०) अन्नम् ११) वीर्यम् १२) तपः १३) मन्त्राः १४) अग्निहोत्राणि कर्माणि १५) स्वर्गादिलोकाः
१६) नामानि । इत्येताः षोडश कलाः परस्मादेव ब्रह्मणो जायन्ते ॥

"https://sa.wikiquote.org/w/index.php?title=स_प्राणम्_असृजत...&oldid=16436" इत्यस्माद् प्रतिप्राप्तम्