स यो ह वै तत् परमं ब्रह्म...

विकिसूक्तिः तः

स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति । - मुण्डकोपनिषत् ३-२-९

यो वा को वा भवतु, तद् ब्रह्म आत्मत्वेन जानाति चेत्, सः ब्रह्मैव भवति ॥

इमं सन्देशं धैर्येण अत्यन्तसुन्दरतया, साक्षात् सरलतया च मुण्डाकोपनिषत् उपदिशति । कथमिति ?
ब्रह्मविदः ब्रह्मप्राप्तिरेव फलम् इति, अस्यैव मोक्षः इत्यपि नाम । सकलवेदान्तानां सकलशास्त्राणां च इदमेव तात्पर्यम् ॥

अनात्मवस्तुविदः तत्तद्वस्तुत्वरूपं फलं न हि भवति । यस्मात् तस्य नामैव अनात्मवस्तु इति । न हि तानि
अनात्मवस्तूनि अस्माकं स्वरूपं भवेत् । परं ब्रह्म तु ब्रह्मविदः स्वरूपमेव । अतः ब्रह्मवित् ब्रह्मैव भवति ॥

परं ब्रह्म अहमेवेति ज्ञानमेव हि आत्मज्ञानं नाम । सर्वेणापि सुसम्पाद्यमिदम् आत्मज्ञानम् । आत्मज्ञानं तथा मोक्षः ।
उभयमपि सर्वप्राणिनाम् आजन्मसिद्धा सम्पत् । येन केनापि मधुरे भक्ष्ये भक्षिते सति यथा माधुर्यम् , अग्निं स्पृष्टवतां
सर्वेषां यथा दाहः तथैव ब्रह्मणि विज्ञाते सति ते सर्वेऽपि मुक्ता भवन्ति ॥