सुलभाः पुरुषाः लोके...

विकिसूक्तिः तः

सुभाषितम्

सुलभाः पुरुषाः लोके सततं प्रियवादिनः ।
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥




तात्पर्यम्

सर्वदा प्रियं ये वदन्ति तादृशाः लोके बहवः विद्येरन् । किन्तु कठोरैः वचनैः हितस्य कथयितारः दुर्लभाः, श्रोतारश्च विरलाः ।




"https://sa.wikiquote.org/w/index.php?title=सुलभाः_पुरुषाः_लोके...&oldid=15075" इत्यस्माद् प्रतिप्राप्तम्