हीयते हि मतिस्तात...

विकिसूक्तिः तः

सुभाषितम्

हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्चसमतामेति विशिष्टैः च विशिष्टताम् ॥




तात्पर्यम्

हीनजनानां सहवासेन अस्माकं बुद्धिः अपि दुष्टा भवति । मध्यमानां सहवासेन अस्माकं बुद्धिः अपि तेषामिव एव भविष्यति । विशिष्टव्यक्तित्ववतां सहवासेन अस्माकं बुद्धिः अपि विशिष्टा भविष्यति ।

"https://sa.wikiquote.org/w/index.php?title=हीयते_हि_मतिस्तात...&oldid=15039" इत्यस्माद् प्रतिप्राप्तम्