अमरभरतभुवनजाः...
दिखावट
अमरभरतभुवनजाः...
अमरभरतभुवनजाः महितचरितशोभनाः
शयनमात्मनो विहाय कुरुत सपदि जागराम् ।
शुभदजीवनं विधातुमवितुमखिलमानवान्
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ।।
क्लेशनिचयवारणाय साधनां प्रकुर्महे
कष्टदुरिततारणाय योजनां विदध्महे ।
लक्ष्यसिद्धिमुज्ज्वलां विधातुमात्मनो वयम्
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ।।
युवजनान्तरङ्गके प्रकृत्य धर्मजागराम्
अन्धकारमग्नलोकमुद्धराम साम्प्रतम् ।
लक्ष्यसिद्धिमुज्ज्वलां विधातुमात्मनो वयम्
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ।।
अतुलसङ्घवैभवेन निखिलसोदरानिमान्
पावयाम संस्कृतापगामृताम्भसा वयम् ।
पूतमानसैः समं ततो विदध्महे द्रुतम्
संस्कृतं यशोयुतं समर्थमार्षभारतम् ।।
सर्वथा समर्थसंस्कृतार्षदेशसृष्टये
सर्वसद्गुणाभिपूर्णविश्वपौरवृद्धये ।
शाश्वतैक्यसाधनाय सामरस्यसिद्धये
सम्पठाम संस्कृतं प्रसारयाम सत्वरम् ।।
- रणजित्