सामग्री पर जाएँ

आर्षभारतीम् उपास्महे...

विकिसूक्तिः तः

आर्षभारतीम् उपास्महे...


आर्षभारतीं निजराष्ट्र भारतीं
मुनिजनपरिलालिताम् आर्षभारतीम् ।
वयमुपास्महे इमामुपास्महे ।
सर्गशक्तिदायिनीमिमामुपास्महे ।।
मातरं वन्दे भारतीं मातरं वन्दे राष्ट्रभारतीम् ।

ऋषिसमुद्भवां सनातनीं परम्परां
सकलविश्वमङ्गलप्रदायिनीमिमाम् ।
सततमवितुमार्षभारतीमुपास्महे ।। मातरं वन्दे भारतीम् ....।।

धर्ममूर्तिरामचन्द्रधन्यजीवनं
पौरुषप्रभाविकृष्णकर्म चाखिलम् ।
जनहृदि परिपूरयितुमिमामुपास्महे ।। मातरं वन्दे भारतीम् ...

भारताम्बिकापदाब्जयोः स्वजीवनं
भक्तिभावपूर्वकं समर्पयामहे ।
तन्निमित्तमार्षभारतीमुपास्महे ।। मातरं वन्दे भारतीम् ......

आर्षभारतीनिषेवणेन भारतं
विश्वगुरुपदं समेत्य भातु सर्वदा ।
तदिह द्रष्टुमार्षभारतीमुपास्महे
तन्निमित्तमार्षभारतीमुपास्महे ।। मातरं वन्दे भारतीम् ....


- को. रणजित्