उदात्तलक्ष्यं स्यादस्माकम्...
दिखावट
उदात्तलक्ष्यं स्यादस्माकम्...
उदात्तलक्ष्यं स्यादस्माकं पुरतो गमनार्थम्
महत्त्वभूतादर्शोऽस्माकं स्यादनुगमनार्थम् ।
तदोदियान्नवपक्षद्वितयं दृढं तथा दीप्तं
विदूरतेजोलोकेष्वपि सञ्चरितुमितः शक्तम् ।।
असाध्यमिति न हि किमपि मनुष्यो यदीह निश्चिनुयात्
यदि प्रमुञ्श्चेत् प्रसुप्तशक्तिस्त्रोतोगणमचिरात् ।
जडत्वमीषन्नहि नो हृदि तद् विशुद्धचैतन्यम्
अयं प्रपञ्चो न भवति पादत्रयपरिमाणार्थम् ।। १ ।।
कुतो विलापो दुर्बलभावं विहाय सञ्चरत
प्रसुप्तविक्रमभावमशेषं जागरयत तपसा ।
तपः प्रभावाधीनं जगदिति सदैव चिन्तयत
अपेक्षितं नो जगदाराध्यं स्वराष्ट्रसामर्थ्यम् ।।२।।
कदापि दानवशक्तिभ्यो न हि बिभीत किञ्चिदपि
कदापि धर्मच्छद्ममुखावृतलोके मा भ्रमत ।
भवेद्धि लक्ष्यं ध्रुवतारकसममचञ्चलं दीप्तं
समस्तमानवनिचयहितार्थम् इदं समुज्ज्वलमयनम् ।।३।।
- को. रणजित्