एतस्य वा अक्षरस्य...

विकिसूक्तिः तः

अक्षरस्य महिमा ह्येषः !

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । - बृहदारण्यकोपनिषत् ३-८-९

हे गार्गि, अक्षरस्य प्रशासने सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ।

अक्षरस्य महिमानम् अयं मन्त्रः उपदिशति । अक्षरमिति, न क्षरति इति ।
नाशरहितं परब्रह्मतत्त्वम् । देशकालाभ्याम् अपरिच्छिन्नः परमेश्वर एव
अक्षरम् । समस्तस्यापि विश्वस्य जन्मस्थितिलयकारणभूतं परतत्त्वम् अक्षरम्
इति कथ्यते । नामरूपक्रियारहितं परिपूर्णं तत्त्वम् अक्षरम् ॥

अस्य अक्षरस्य प्रशासने एव ग्रहनक्षत्रादयः स्वव्यापारान् कुर्वन्ति । सूर्यश्च
चन्द्रमाश्च अस्य अक्षरस्य शासने एव जीवतः । सूर्यो नाम किं सामान्या
देवता ? ग्रहराजो हि सूर्यः? सूर्यो नाम प्रकाशदेवता ! सूर्यो नाम विश्वप्रकाशिका
मङ्गळदेवता ! जगद्वन्द्यदेवो हि सूर्यः ! यदि एकस्मिन् दिने सूर्यो नोदेति न
च प्रकाशयति, तदा सर्वमन्धकारमयं जगत् । अथ चन्द्रनारायणः अयमपि
मङ्गलदेव एव । अक्षराधीनौ एव सोमसूर्यौ स्वव्यापारं कुरुतः । अक्षरमेव
सूर्यस्यापि सूर्यः । ज्ञातो वा अक्षरस्य महिमा ?

"https://sa.wikiquote.org/w/index.php?title=एतस्य_वा_अक्षरस्य...&oldid=16471" इत्यस्माद् प्रतिप्राप्तम्