एत समेता गायत सुहृदः...
दिखावट
एत समेता गायत सुहृदः...
एत समेता गायत सुहृदो भारतगौरवगानम् ।
वादयामहे विजयदुन्दुभिं कुर्मी जयजयघोषम् ।।
स्वार्थो नैव न जडता मोहो वयं प्रयाता धीराः
कष्टशतान्नहि भयमस्माकं वयं समर्थाशूराः
भारतभक्तिर्धमनिषु रोमसु वयमचला जयशीलाः ।। ।। वादयामहे ... ।।
धर्मपथे वयमविहतगतयः सत्यमेव नः प्राणाः
राष्ट्रहितार्थे धृतजन्मानः कृतिनश्श्रितसन्मार्गाः
जनसेवा पुरुषोत्तमपूजा तदिह समाश्रितसेवाः ।। ।। वादयामहे ।।
विलसतु भारतकीर्तिपताका तुङ्गे पर्वतशृङ्गे ।
मातुस्तुतिनुतिवचोगीतिका श्रूयेत प्रतिसदने ।
एधय मातश्शुभैर्वचोभिस्सुतान् विनीतान् अस्मान् ।। ।। वादयामहे ।।
- जनार्दनहेगडे