सामग्री पर जाएँ

एष समयः साधनार्थः...

विकिसूक्तिः तः

एष समयः साधनार्थः ...


एष समयः साधनार्थः सार्थकः क्रियताम्।
पुनरलभ्यः सदवकशो वृथा न क्रियताम्,
वृथा न क्रियताम् ॥एष समयः॥

ब्राह्मसुमुहूर्तोऽयमधुना चिन्तनं कार्यं,
संस्कृतेरभिवर्धनार्थं समैः श्रद्धेयम्।
मित्रमणयः! समुत्तिष्ठत मास्तु वः शयनम्
सुप्रभातं संस्कृतारुणपूर्वसन्ध्येयम्॥ एष समयः॥

गता रात्रिर्गताः क्लेशाः गतं सम्भ्रमणम्,
आत्मविस्मृतिरतिक्रान्ता स्मरत विक्रमणम्।
युवकिशोराः! स्वयं कार्यं नवं सङ्क्रमणम्,कण्टकोद्धरणम्,
चिरसुषुप्तिः पुनर्माभूत् भजत जागरणम्॥ एष समयः॥

धर्मनिधये बुधार्काय विधेयमेवार्घ्यम्,
पदं कर्तुः पामरशिशोः प्रथमसत्करणम्।
साधनपराः! मातृचरणे जीवनं देयम्,
सङ्घटनया धैर्यधनिभिः पुरस्सरणीयम्॥ एष समयः॥

प्रतिक्षणमपि संस्कृतार्थं किमपि संचिन्त्यम्।
प्रतिरसनमप्यमृतवाण्या भवतु लघु नृत्यम्।
प्रतिपदमपि प्रियं ब्रूयात्,प्रतिसदनमपि सुवृष्टिः स्यात्
संस्कृतश्रीणाम्,संस्कृतिश्रीणाम्॥एष समयः

श्रुणुत वदत च पठत लिखत च चिन्तनं कुरुत।
प्रणति-सेवा-प्रश्नकरणैरर्थमनुवृणुत।
इह सुतपसः तमसि सूर्यात् धियः प्राप्स्यामः।
प्रशमहृदयाः प्रयतविषयाः साधनं कुर्मः॥


- दोर्बलप्रभाकरशर्मा


"https://sa.wikiquote.org/w/index.php?title=एष_समयः_साधनार्थः...&oldid=18369" इत्यस्माद् प्रतिप्राप्तम्