कावेरीसदृशी जीवनदा...
दिखावट
कावेरीसदृशी जीवनदा...
कावेरीसदृशी जीवनदा
संस्कृतवाणी वहतु सदा ।
शुभ्रा हृद्या मधुरा रसदा
सर्वैः सेव्या भवतु मुदा ॥
यां यां भाषां भारतजननी
धत्ते रम्या पुण्यधरा
भाषाणां तासां जनयित्री
संस्कृतवाग्देशाधारा
यस्या हेतोर्विश्वगुरुत्वं
प्राप्तं किल देशेन पुरा ॥
यन्त्रयुगेऽस्मिन्नाधुनिके भुवि
संस्कृतमिन्धनवद्भवति
शक्तिहीनतां क्लेशसन्ततिं
हित्वा जगदग्रे नयति
विश्वमङ्गला सकलसमृद्धिः
स्याद्गीर्वाणी यदि लसति ॥
सुललितसुमधुरबालालापात्
पुनरपि जनरसनावसतिः
भाषणतत्परलोककारणात्
लेखगानकरणे प्रगतिः
गीर्वाण्या स्याद्यावद्विततिः
विश्वेऽस्माकं न हि विरतिः ॥
- सूर्यहेब्बारः