कुर्महे समर्थभारतम्...
दिखावट
कुर्महे समर्थभारतम्...
वन्दे मातरं वन्दे भारतं वन्दे भारतमातरम् ।
वयं सहोदरसहोदर्यः कुर्महे समर्थभारतम् ।।
ग्रामे नगरे राष्ट्रे विश्वे संस्कृतसम्भाषणविधिना ।
दिशि दिशि संस्कृतभारत्या निर्माम संस्कृतभारतम् ।।
अनन्तकोटिकण्ठेषु प्रवहतु संस्कृतभारती ।
अविरतसंस्कृतनादेन प्रभवतु समर्थभारतम् ।।
तन्त्रज्ञानं विज्ञानं तत्त्वज्ञानेन समम् ।
रक्षतु शास्त्रपरम्परां तेन च संस्कृतभारतम् ।।
योगे वैद्ये शस्त्रे शास्त्रे गुप्तं संस्कृतसामर्थ्यम् ।
ललितकलासु साहित्येषु प्रयोजयन्तु संस्कृतम् ।।
संस्कृतभारतनिर्माणं समर्थभारतसोपानम् ।
आर्षसंस्कृतिं तेनैव विश्वसस्कृतिं कुर्याम ।।
- गुण्डमि गणपय्य होळळः