हिन्दुराष्ट्रसङ्घटकं...

विकिसूक्तिः तः
(केशवं स्मरामि सदा... इत्यस्मात् पुनर्निर्दिष्टम्)

हिन्दुराष्ट्रसङ्घटकं...


हिन्दुराष्ट्रसङ्घटकं सुजनवन्दनीयं

केशवं स्मरामि सदा परमपूजनीयम् ॥


राष्ट्रमिदं हिन्दूनां खलु सनातनम्
विघटनया जातं चिरदास्यभाजनम्
दु:खदैन्यपीडितमिति पीडितहृदयम् ॥ ॥१॥


भगवद्ध्वज एव राष्ट्रगुरुरयं महान्
देशोऽयं खलु देवो जगति महीयान्
बोधयन्तमिति तत्त्वं सततस्मरणीयम् ॥ ॥२॥


वीरव्रतमेव परं धर्मनिदानम्
सुशीलमेव लोकेऽस्मिन् परमनिधानम्
उपदिशन्तमिति सारं दृढमाचरणीयम् ॥ ॥३॥


नेतुं निजराष्ट्रमिदं परमवैभवं
नयत विलयमन्तर्गतसकलभेदभावम् ।

सङ्घमन्त्रमिति जपन्तमेकमेषणीयम् ॥ ॥४॥