विदुरनीतिः (अध्यायः ३५)

विकिसूक्तिः तः
(ग्रन्थाः/नीतिग्रन्थाः/विदुरनीतिः/अध्यायः ३५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

 धृतराष्ट्र उवाच ।

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
शृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ १॥

 विदुर उवाच ।

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् ।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ २॥

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ ३॥

यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥ ४॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ ५॥

 केशिन्युवाच ।

किं ब्राह्मणाः स्विच्च्ह्रेयांसो दितिजाः स्विद्विरोचन ।
अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥ ६॥

 विरोचन उवाच ।

प्राजापत्या हि वै श्रेष्ठा वयं केशिनि सत्तमाः ।
अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥ ७॥

 केशिन्युवाच ।

इहैवास्स्व प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥ ८॥

 विरोचन उवाच ।

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥ ९॥

 विदुर उवाच ।

अन्वालभे हिरण्मयं प्राह्रादेऽहं तवासनम् ।
एकत्वमुपसम्पन्नो न त्वासेयं त्वया सह ॥ १०॥

 विरोचन उवाच ।

अन्वाहरन्तु फलकं कूर्चं वाप्यथ वा बृसीम् ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥ ११॥

 सुधन्वोवाच ।
पितापि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किं चन बुध्यसे ॥ १२॥

 विरोचन उवाच ।

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्च्हाव ये विदुः ॥ १३॥

 सुधन्वोवाच ।
हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्च्हाव ये विदुः ॥ १४॥

 विरोचन उवाच ।

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न हि देवेष्वहं स्थाता न मनुष्येषु कर्हि चित् ॥ १५॥

 सुधन्वोवाच ।
पितरं ते गमिष्यावः प्राणयोर्विपणे कृते ।
पुत्रस्यापि स हेतोर्हि प्रह्रादो नानृतं वदेत् ॥ १६॥

 प्रह्लाद उवाच ।

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गमिहागतौ ॥ १७॥

किं वै सहैव चरतो न पुरा चरतः सह ।
विरोचनैतत्पृच्च्हामि किं ते सख्यं सुधन्वना ॥ १८॥

 विरोचन उवाच ।

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्राद तत्त्वामृप्च्च्हामि मा प्रश्नमनृतं वदीः ॥ १९॥

 प्रह्लाद उवाच ।

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥ २०॥

 सुधन्वोवाच ।
उदकं मधुपर्कं च पथ एवार्पितं मम ।
प्रह्राद त्वं तु नौ प्रश्नं तथ्यं प्रब्रूहि पृच्च्हतोः ॥ २१॥

 प्रह्लाद उवाच ।

पुर्तो वान्यो भवान्ब्रह्मन्साक्ष्ये चैव भवेत्स्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विभो वदेत् ॥ २२॥

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वानृतम् ।
एतत्सुधन्वन्पृच्च्हामि दुर्विवक्ता स्म किं वसेत् ॥ २३॥

 सुधन्वोवाच ।
यां रात्रिमधिविन्ना स्त्री यां चैवाक्ष पराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता स्म तां वसेत् ॥ २४॥

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता स्म तां वसेत् ॥ २५॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ २६॥

हन्ति जातानजातांश्च हिरण्यार्थोऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥ २७॥

 प्रह्लाद उवाच ।

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्वद्विरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥ २८॥

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ।
सुधन्वन्पुनरिच्च्हामि त्वया दत्तं विरोचनम् ॥ २९॥

 सुधन्वोवाच ।
यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते तस्मात्पुत्रं प्रह्राद दुर्लभम् ॥ ३०॥

एष प्रह्राद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः संनिधौ मम ॥ ३१॥

 विदुर उवाच ।

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः स सुतामात्योऽत्ययं पुत्राननुभ्रमन् ॥ ३२॥

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्च्हन्ति बुद्ध्या संविभजन्ति तम् ॥ ३३॥

यथा यथा हि पुरुषः कल्याणे कुरुते मनः ।
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ ३४॥

न च्हन्दांसि वृजिनात्तारयन्ति
आयाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षाश्
च्हन्दांस्येनं प्रजहत्यन्तकाले ॥ ३५॥

मत्तापानं कलहं पूगवैरं
भार्यापत्योरन्तरं ङ्य़ातिभेदम् ।
राजद्विष्टं स्त्रीपुमांसोर्विवादं
वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्ठः ॥ ३६॥

सामुद्रिकं वणिजं चोरपूर्वं
शलाक धूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च
नैतान्साख्येष्वधिकुर्वीत सप्त ॥ ३७॥

मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयङ्य़ः ।
एतानि चत्वार्यभयङ्कराणि
भयं प्रयच्च्हन्त्ययथा कृतानि ॥ ३८॥

अगार दाही गरदः कुण्डाशी सोमविक्रयी ।
पर्व कारश्च सूची च मित्र ध्रुक्पारदारिकः ॥ ३९॥

भ्रूणहा गुरु तल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च काकश्च नास्तिको वेद निन्दकः ॥ ४०॥

स्रुव प्रग्रहणो व्रात्यः कीनाशश्चार्थवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्मण्हणैः समाः ॥ ४१॥

तृणोक्लया ङ्य़ायते जातरूपं
युगे भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्च्ह्रेषु धीरः
कृच्च्ह्रास्वापत्सु सुहृदश्चारयश् च ॥ ४२॥

जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान्धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्य सेवा
ह्रियं कामः सर्वमेवाभिमानः ॥ ४३॥

श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात्प्रतितिष्ठति ॥ ४४॥

अष्टौ गुणाः पुरुषं दीपयन्ति
प्रङ्य़ा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहु भाषिता च
दानं यथाशक्ति कृतङ्य़ता च ॥ ४५॥

एतान्गुणांस्तात महानुभावान्
एको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणानेष गुणोऽतिभाति ॥ ४६॥

अष्टौ नृपेमानि मनुष्यलोके
स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषामन्ववेतानि सद्भिश्
चत्वार्येषामन्ववयन्ति सन्तः ॥ ४७॥

यङ्य़ो दानमध्ययनं तपश् च
चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं
चत्वार्येतान्यन्ववयन्ति सन्तः ॥ ४८॥

न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ हर्मो यतन सत्यमस्ति
न तत्सत्यं यच्च्हलेनानुविद्धम् ॥ ४९॥

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चिरभाष्यं च दशः संसर्गयोनयः ॥ ५०॥

पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् ।
पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ ५१॥

पापं प्रङ्य़ां नाशयति क्रियमाणं पुनः पुनः ।
नष्टप्रङ्य़ः पापमेव नित्यमारभते नरः ॥ ५२॥

पुण्यं प्रङ्य़ां वर्धयति क्रियमाणं पुनः पुनः ।
वृद्धप्रङ्य़ः पुण्यमेव नित्यमारभते नरः ॥ ५३॥

असूयको दन्द शूको निष्ठुरो वैरकृन्नरः ।
स कृच्च्ह्रं महदाप्नोतो नचिरात्पापमाचरन् ॥ ५४॥

अनसूयः कृतप्रङ्य़्टः शोभनान्याचरन्सदा ।
अकृच्च्ह्रात्सुखमाप्नोति सर्वत्र च विराजते ॥ ५५॥

प्रङ्य़ामेवागमयति यः प्राङ्य़ेभ्यः स पण्डितः ।
प्राङ्य़ो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ ५६॥

दिवसेनैव तत्कुर्याद्येन रातौ सुखं वसेत् ।
अष्ट मासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ ५७॥

पूर्वे वयसि तत्कुर्याद्येन वृद्धसुखं वसेत् ।
यावज्जीवेन तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥ ५८॥

जीर्णमन्नं प्रशंसन्ति भार्यं च गतयौवनाम् ।
शूरं विगतसङ्ग्रामं गतपारं तपस्विनम् ॥ ५९॥

धनेनाधर्मलब्धेन यच्च्हिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ६०॥

गुरुरात्मवतां शास्ता शासा राजा दुरात्मनाम् ।
अथ प्रच्च्हन्नपापानां शास्ता वैवस्वतो यमः ॥ ६१॥

ऋषीणां च नदीनां च कुलानां च महामनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ६२॥

द्विजातिपूजाभिरतो दाता ङ्य़ातिषु चार्जवी ।
क्षत्रियः स्वर्गभाग्राजंश्चिरं पालयते महीम् ॥ ६३॥

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ६४॥

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ ६५॥

दुर्योधने च शकुनौ मूढे दुःशासने तथा ।
कर्णे चैश्वर्यमाधाय कथं त्वं भूतिमिच्च्हसि ॥ ६६॥

सर्वैर्गुणैरुपेताश्च पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥ ६७॥


॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरहितवाक्ये पJण्चत्रिंशोऽध्यायः ॥ ३५॥