कालिदाससूक्तयः (आराधना)

विकिसूक्तिः तः
Jump to navigation Jump to search

ब्रह्मा[सम्पाद्यताम्]

१. नमस्त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।

गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ कुमार० २।४

२. यदमोघमपामन्तरुप्तं बीजमज ! त्वया ।

अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ कु० २।५॥

३. तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।

प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ कु० २।६॥

४. स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।

प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ॥ कु० २।७॥

५. स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।

यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ कु० २।८॥

६. जगद्योनिरयोस्त्वं जगदन्तो निरन्तकः ।

जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ कु० २।९॥

७. आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।

आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ कु० २।१०॥

८. द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।

व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ कु० २।११॥

९. उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।

कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ कु० २।१२॥

१०. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।

तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ कु० २।१३॥

११. त्वं पितॄणामपि पिता देवानामपि देवता ।

परतोऽपि परश्चासि विधाता वेधसामपि ॥ कु० २।१४॥

१२. त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।

वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परं ॥ कु० २।१५॥

१३. मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ कु० २।१६॥

विष्णुः[सम्पाद्यताम्]

१. नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।

अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधा स्थितात्मने ॥ रघु० १०।१६॥

२. रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।

देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ रघु० १०।१७॥

३. अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।

अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ रघु० १०।१८॥

४. हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।

दयालुमनघस्पृष्टं पुराणमजरं विदुः ॥ रघु० १०।१९॥

५. सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।

सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ रघु० १०।२०॥

६. सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।

सप्तार्चिमुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ रघु० १०।२१॥

७. चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्गुणाः ।

चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ रघु० १०।२२॥

८. अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।

ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ रघु० १०।२३॥

९. अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।

स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव ॥ रघु० १०।२४॥

१०. शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।

पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ रघु० १०।२५॥

११. बहुधाऽप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।

त्वय्येव निपतन्त्योघजाह्नवीया इवार्णवे ॥ रघु० १०।२६॥

१२. त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।

गतिस्त्वं वीतरागाणामभूर्यः सन्निवृत्तये ॥ रघु० १०।२७॥

१३. प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।

आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ रघु० १०।२८॥

१४. उदधेरिव रत्नानि तेजांसीव विवस्वतः ।

स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते ॥ रघु० १०।३०॥

१५. अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते ।

लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ रघु० १०।३१॥

१६. महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।

श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ रघु० १०।३२॥

१७. विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा ।

उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ रघु० १०।३५॥

शिवः[सम्पाद्यताम्]

१. वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ रघु० १।१॥

२. वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी,

यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते,
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः ॥ विक्रमो० १।१॥

३. या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री,

ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः,
प्रत्याक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ शाकुन्तल १।१॥

४. एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः कृत्तिवासाः,

कान्तासम्मिश्रदेहोऽप्यविषयमनसां यः परस्ताद् यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः,
सन्मार्गालोकनाय व्यपनयतु स वस्तामर्सी वृत्तिमीशः ॥ मालविका० १।१॥

५. स हि देवः परं ज्योतिस्तमः पारे व्यवस्थितम् ।

परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ कुमार०२।५८॥

६. अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।

शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ कु० ६।७५॥

७. कलितान्योन्यसामर्थैः पृथिव्यादिभिरात्मभिः ।

येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥ कु० ६।७६॥

८. योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।

अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥ कु० ६।७७॥

९. असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।

ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ॥ कुमार० ९।७॥

१०. पुरातनीं ग्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।

उद्गीतावेदां मुकुटेन्दुवर्षत्सुधाभरौघाप्लवलब्धसंज्ञाम् ॥ कुमार० १२।१७॥

११. ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण ।

भूतं भवद्भावि च यच्च किञ्चित्सर्वज्ञ सर्वं तव गोचरं तत् ॥ कु० १२।४४॥

१२. पुरा मयाऽकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनाऽपि ।

तत्रैष हेतुः तद्भवेन वीरेण यद् वध्यत एष शत्रुः ॥ कुमार० १२।५५॥