सामग्री पर जाएँ

चल चल पुरतः...

विकिसूक्तिः तः

{{पृष्ठपट्टिका-गीतम् |शीर्षकम् = पूर्णविजयसङ्कल्पोऽस्माकम्...

चल चल पुरतः...


चल चल पुरतो निधेहि चरणम् ।
सदैव पुरतो निधेहि चरणम् ।।

गिरिशिखरे तव निजनिकेतनं
समारोहणं विनैव यानम् ।
आत्मबलं केवलं साधनं
सदैव पुरतो निधेहि चरणम् ।।

पथि पाषाणाः विषमाः प्रखराः
तिर्यञ्श्वोऽपि च परितो घोराः ।
सुदुष्करं खलु यद्यपि गमनं
सदैव पुरतो निधेहि चरणम् ।।

जहीहि भीतिं हृदि भज शक्तिं
धेहि धेहि हे भगवति भक्तिम् ।।
कुरु कुरु सततं ध्येयस्मरणं
सदैव पुरतो निधेहि चरणम् ।।




"https://sa.wikiquote.org/w/index.php?title=चल_चल_पुरतः...&oldid=18341" इत्यस्माद् प्रतिप्राप्तम्