चाटुचणकः(प्रशंसा)

विकिसूक्तिः तः
Jump to navigation Jump to search
प्रशंसा

<poem>

कातर्यं दुर्विनीतत्वं कार्पण्यमविवेकिता । सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिङ्कराः ॥ - कलिविडम्बनम् भीरुता, अविनीतता, कृपणता, अविवेकिता इत्यादयः बहवः दुर्गुणाः येषु भवेयुः तान् अपि कवयः स्तुवन्ति - ‘एषः गुणानां खनी’ ‘गुणवत्सु अग्रेसरः’ ‘अनन्तगुणसम्पन्नः’ ‘गुणिगणचूडामणिः’ इत्यादिभिः शब्दैः । किमर्थम् एवं क्रियते तैः ? यतः ते मुष्टिमितस्य धान्यस्य, केषाञ्चित् नाणकानां च दासाः भवन्ति । धनादीनां दासत्वम् आपन्नाः अगुणम् अपि महागुणत्वेन स्तुवन्ति इत्यत्र नास्ति आश्चर्यम् । काकणिकानां प्रभावः एव तादृशः !!


वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनाः । लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥ - कलिविडम्बनम्

केचन प्रतिभावन्तः सन्तोऽपि कस्यचित् अधमस्य स्तुत्या एव कालं यापयन्ति । राजनीतौ स्थितं, मठाधीशत्वम् आप्तवन्तम्, अधिकारिपदे विराजमानं वा कञ्चित् अधमं स्तुवन्तः कालं यापयन्ति बहवः प्रतिभावन्तः । अस्थाने प्रतिभा विनियुज्यते तैः । तादृशान् दृष्ट्वा कविः वदति - ‘‘कामधेनुं प्राप्य एते तां कर्षणकार्ये विनियुञ्जते’ इति । कर्षणकार्ये कामधेन्वाः योजकानां बुद्धिः हतप्रभा जाता अस्ति इति किं पुनर्वक्तव्यम् ?


वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः । अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥

मम वासः अमुके पुण्यक्षेत्रे..., महापण्डितः अमुकः विद्वान् एव मम गुरुः आसीत्..., प्रसिद्धाः अमुकजनाः मया पाठिताः... - एतादृशानि आत्मख्यापनवचनानि ये वदन्ति ते धनसम्पादने विशेषक्लेशं न अनुभवन्ति ।


स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले । न स्तौति चेत्स्वयं च स्वं कदा तस्यास्तु निर्वृतिः ॥

ये स्वभावेन मूर्खाः भवन्ति तेषां स्तोतारः न भवन्ति । परेण क्रियमाणायाः स्तुतेः श्रवणं विना तृप्तिः सुखसन्तोषादयः वा न भवन्ति । अतः एव मूर्खः स्वयम् आत्मानं स्तौति । यदि एवं न क्रियेत तर्हि तस्य मनश्शान्तिः एव न भवेत् खलु ?


उष्ट्रकस्य विवाहे तु गीतं गायन्ति गर्दभाः । परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥

उष्ट्रस्य रूपसौन्दर्यं सर्वैः ज्ञातम् एव । तादृशस्य कस्यचित् उष्ट्रस्य विवाहावसरे गर्दभाः गायकत्वेन गताः आसन् । गर्दभानां कण्ठस्वरस्य माधुर्यं पुनर्वक्तव्यं नास्ति खलु ? विवाहमण्डपे गायकाः गर्दभाः उष्ट्रम् अङ्गुल्या निर्दिशन्तः प्रशंसां कृतवन्तः – 'अहो रुपम् उष्ट्रवरस्य' इति । उष्ट्रः अपि गर्दभानां प्रशंसाम् अकरोत् - 'एतेषाम् अहो कण्ठमाधुर्यम्' इति । लोके अपि असमर्थयोः एतादृशी परस्परप्रशंसा क्वचित् दृश्यते एव खलु !

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(प्रशंसा)&oldid=14575" इत्यस्माद् पुनः प्राप्तिः