चाटुचणकः(वैद्यः)

विकिसूक्तिः तः
Jump to navigation Jump to search
वैद्यः


गृध्री गृध्रं पृच्छति पितृवनमध्ये न दृश्यते धूम: ।
मन्ये सम्प्रति वैद्योऽप्यन्यग्रामं गतो नूनम् ॥

काचित् गृध्री गृध्रं पृच्छति - 'अद्य श्मशानभूमौ धूमोद्गम: एव न दृश्यते किमर्थम् ?' इति । तदा गृध्र: वदति - 'अद्य वैद्य: ग्रामान्तरं गतवान् स्यात् । तस्मात् ग्रामे कस्यापि मरणं न जातम् । अत: अद्य श्मशाने न धूम:' इति । एतदर्थकानि एतादृशानि वा पद्यानि बहूति दृश्यन्ते संस्कृतक्षेत्रे । प्राय: कवय: वैद्यान् बहुधा निन्दन्त: अपि न तृप्यन्ति । अत्र दोष: कवीनाम् उत वैद्यानाम् इति न विद्म: वयम् ।



मूर्धानं प्रथमं विधूय तदनु ध्यात्वा चिरं मौनवान् आहारं प्रथमं निरुध्य रुचिरानन्यान् विशेषानपि ॥
क्वाथै: कर्शितकायमातुरनरं तैलं घृतं पाचयन् हृत्वा दक्षिणया वसु व्यसुममुं त्यक्त्वा भिषग् धावति ॥

रोगिण: परीक्षायै आगत: वैद्य: आदौ दीर्घकालं परीक्षते । तत: शिरस: इतस्तत: चालनेन रोगिण: अस्वास्थ्याधिक्यं ज्ञापयति । तत: दीर्घकालिकेन मौनेन रोगिणि उद्वेगं जनयति । पथ्यव्याजेन रुचिमयानाम् आहाराणां, मधुरखाद्यादीनां च सेवनस्य निषेधं कृत्वा तिक्तानि औषधानि सेवनीयानि इति आदिशति । जुगुप्सावहानां तैलघृतादीनां सेवनं कारयति । एवं सर्वं कृत्वा रोगिणं बहुधा सम्पीड्य शुल्कत्वेन प्रभूतं धनं स्वीकृत्य रोगिणं च मरणावस्थां प्रापय्य वैद्य: तत: धावति । एतत्सर्वं जानद्भि: अपि जनै: रोगकाले वैद्या: सेवनीया: एव भवन्ति अनन्यगतिकतया । अहो ! पराधीनता मानवानाम् !



वैद्योऽहं व्याधिवर्गाणाम् आश्रयोऽस्म्यपयशोनिधि: ।
मया चिकित्सितस्सद्यो मार्कण्डेयोऽपि स्यान्मृत: ॥

कश्चन वैद्य: वदति - ‘‘अहमस्मि वैद्य: । सर्वेषां व्याधिप्रकाराणाम् आश्रय: अस्मि अहमेव । अपकीर्ति: मम निधि: । यदि मार्कण्डेयोऽपि चिकित्सार्थं मत्समीपम् आगच्छेत् तर्हि तस्यापि मरणं निश्चितम्’’ इति । परमेश्वरभक्तस्य मार्कण्डेयस्य प्राणानाम् अपहरणं कर्तुं यमोऽपि असमर्थ: । परं वैद्य: तस्यापि प्राणान् हरिष्यति निश्चयेन । अत: वैद्यस्य श्रेष्ठता (क्रूरता ?) तु अङ्गीकरणीया एव खलु भवति ?



आतुराद्वित्तहरणं मृताच्च प्रपलायनम् ।
एतद्वैद्यस्य वैद्यत्वं न वैद्य: प्रभुरायुष: ॥

वैद्यशास्त्रस्य सिद्धान्त: यत् वैद्यशास्त्रवेत्ता चिकित्सया जनसेवां कुर्यात् इति । किन्तु बहव: वैद्या: तां वृत्तिम् आश्रयन्ति धनाशया । अत: कश्चन चाटुश्लोककार: वदति - 'रोगिभ्य: अधिकधनस्य स्वीकारे वैद्या: भवन्ति निपुणा: । रोगिण: मरणे उपस्थिते मौनेन पलायन्ते ते । आयुष: दाने रक्षणे वा न भवति तेषां सामर्थ्यम् आसक्ति: वा' इति ।
अद्यतनवैद्यानां व्यवहारस्य दर्शनात् भाति यत् चाटुश्लोके उक्ते अंशे उत्प्रेक्षा नास्ति इति । एवं ननु ?



अज्ञातशास्त्रसद्भाषान् शास्त्रमात्रपरायणान् ।
त्यजेद्दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव ॥

केचन वैद्या: वैद्यशास्त्रीयान् विषयान् तु अधीतवन्त: भवन्ति, किन्तु शास्त्रसारं न जानन्ति, अनुभवजन्यं ज्ञानं न अर्जयन्ति वा । तादृशानां चिकित्सा बहुत्र यमपाशायेत, तन्नाम सा यमलोकं प्रापयेत् । (अद्य तु तादृशा: वैद्या: बहव: दृश्यन्ते !) अत: ते दूरात् एव परित्याज्या: । वैद्यवृत्त्यवलम्बनाय अर्हा: न ते ।



प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे ।
बहुमानार्थमन्ते च जिहीर्षन्ति चिकित्सका: ॥

वैद्य: यदि द्रष्टव्य: तर्हि आदौ पञ्जीकरणशुल्कं (ख्रठडड्ढथदज्ञञदड्ढतत् इठठ) दातव्यम् । वैद्य: परीक्ष्य ‘परीक्षणानि कारणीयानि’ इति आदिशति । तदर्थं पुन: व्यय: करणीय: । चिकित्सानिमित्तम् अन्ते वैद्यस्य ड्ढण्ण् अस्मत्पुरत: उपस्थितं भवति । एषा अद्यतनी स्थिति: न । पूर्वमपि एवमेव आसीत् । अत: कश्चन कवि: वदति - ‘चिकित्साया: आरम्भे शुल्कं देयम् । तत: औषधनिमित्तं धनं देयम् । अन्ते बहुमानरूपेण धनं देयम् । एवं त्रिषु अपि स्तरेषु (आरम्भे मध्ये अन्ते च) धनम् आहर्तुम् इच्छन्ति वैद्या:’ इति । धनदानात् ऋते का वा गति: स्यात् रोगिण: ?



भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
आरोग्यं दैवमाहात्म्यात् अन्यथात्वमपश्यत: ॥

यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । ('मम चिकित्साप्रभावत: एव भवत: स्वास्थ्यलाभ: जात:' इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि 'अपथ्यकारणत: एवं जातम्' इति वक्तुं शक्यते एव ।



वैद्यानां शारदी माता पिता च कुसुमाकर: ।
यमदंष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपु: ॥

शरत्काले रोगाणां वृद्धि: सहजा । अत: ताम् ऋतुं वैद्या: मातरं मन्यन्ते । वसन्तकाले आमोदप्रमोदादय: अधिका: । तत्कारणत: व्याधय: वर्धन्ते । अत: वसन्तं ते पितरं मन्यन्ते । यम: दंष्ट्राभि: यान् दशति तेषां विपत्ति: निश्चिता । अत: यमदंष्ट्रा तेषां स्वसा भवति । ये हिताहारसेविन: मिताहारसेविन: च भवन्ति ते सर्वदा स्वस्था: एव भवन्त: वैद्यं न पश्यन्ति । अत: ते वैद्यस्य शत्रव:’ इति वदति कश्चन चाटुकार: ।



दृष्टे रवौ सरसिजं कुमुदं हिमांशौ नीलम्बुवाहनिबिडे गगने शिखी च ।
प्रायस्तथा न हि भजन्ति विकासलक्ष्मीं व्याधौ यथा धनवतां भिषजां मुखानि ॥

सूर्य: दृष्ट: चेत् कमलिन्या: मुखं विकसितं भवति । चन्द्र: दृष्ट: चेत् कुमुदिन्या: मुखं सुविशालं भवति आनन्दातिशयात् । आकाशे मेघा: दृष्टा: चेत् मयूर: विकसितान्तरङ्ग: भवति । एतै: त्रिभि: यावान् आनन्द: प्राप्येत ततोऽपि अधिक: आनन्द: वैद्येन प्राप्येत, यदा महाधनिक: कश्चित् अस्वस्थ: सन् चिकित्सालयद्वारे उपस्थित: भवेत् ।



चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयतां गतः ।
नाहं गतो न मे भ्राता कस्यैदं हस्तलाघवम् ॥

कश्चन वैद्यः ग्रामान्तरं गत्वा प्रत्यागच्छन् मार्गपार्श्वे एकां चितां दृष्टवान् । तत् दृष्टवतः तस्य महत् आश्चर्य जातम् । सः वदति- 'एतस्य गृहं प्रति अहं तु न गतः । मम सहोदरः अपि न गतः । अतः एतस्य अकालिकं मरणं भवितुं न अर्हति । तथापि एषः अकाले मृतः ? एवं तर्हि कः एतत् साहसकृत्यं कृतवान् स्यात्' ? इति ।



वैद्यनाथ नमस्तुभ्यं क्षपिताशेषमानव ।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते ॥

जनानां प्राणहरणं यमस्य कर्तव्यं खलु ? किन्तु यमः इदानीं तत् अतिकष्टकरं भारं वहन् नास्ति, प्रत्युत सुखेन कालं यापयन् अस्ति । यदि लोके मरणम् एव न भवेत् तर्हि लोकयात्रा कथं प्रचलेत् इति आशङ्कायाः तु न अवसरः । यतः जनानां प्राणानाम् अपहरणं तु निरन्तरं कुर्वन् अस्ति वैद्यः । अतः एव यमस्य कार्यं नास्ति । तदर्थं सः सुखेन शेते !



वैद्यराज नमस्तुभ्यम्
यमराजसहोदर !
यमस्तु हरति प्राणान्
वैद्यः प्राणान् धनानि च ॥

वैद्यकीयवृत्त्या धनम् अपहरन्तं कञ्चित् वैद्यम् उद्दिश्य वदन् कश्चित् द्वरात् एव नमस्करोति- ’भोः वैद्यराज ! भवते नमस्काराः । भवान् यमराजस्य सहोदरः एव अस्ति । अथवा यमराजात् अपि भवान् एव श्रेष्ठः स्यात् । यतः यमः प्राणमात्रं हरति । वैद्यः भवान् तु जनानां प्राणान् तु हरति एव । तेनैव सह तेषां धनस्य अपि अपहरणं करोति’ इति ।
एतादृशाः धनापहारकाः वैद्याः अद्यापि केचन दृश्यन्ते खलु लोके ?



नातिधैर्यं प्रदातव्यं नातिभीतिं च रोगिणे ।
नैश्चिन्त्यात्रादिमे दानं नैराश्यादेव नान्तिमे ॥

वैद्यस्य कृते कश्चन व्यवहारसाध्यः उत्तमः हितोपदेशः अत्र अस्ति –
रोगिणम् उद्दिश्य अति धैर्यवचनानि न वक्तव्यानि । यदि तथा उच्येत तर्हि सः वैद्यसमीपम् आगमनम् एव परित्यजेत् । ततः वैद्यस्य आये न्यूनता स्यात् । अति भीतिः अपि रोगिणि न जनयितव्या । यतः अति भीतिः जनिता चेत्, नैराश्यं प्राप्य रोगी चिकित्साम् एव परित्यजेत् । तदा अपि वैद्यस्य हानिः एव खलु ?



रोगस्योपक्रमे सान्त्वं मध्ये किञ्चिद्धनव्यय: ।
शनैरनादर: शान्तौ स्नातो वैद्यं न पश्यति ॥

वैद्या: धनापहरणैकचित्ता: इति सर्वदा निन्दावचनं श्रूयते । किन्तु रोगिणां व्यवहारविषये अधिकं विवरणं न श्रूयते । अत्रास्ति तादृशं विवरणम् । यदा रोगस्य बाधाया: आरम्भ: भवेत् तदा रोगिण: वैद्यस्य पुरत: महान्तमेव विनयं दर्शयन्त: मधुरै: वचनै: व्यवहरन्ति । मध्ये वैद्याय किञ्चित् धनमपि यच्छन्ति । यदा रोगस्य उपशमनं भवेत् तदा तै: वैद्ये अनादर: दर्श्यते । पूर्णत: स्वस्थता यदा स्यात् तदा तु वैद्यस्य नाम अपि न स्मर्यते ।



कृषीवलानां भुवि कालवर्षात् अकालवर्षात् भिषजां प्रमोद: ।
यत्सस्यवृद्धिं कुरुते च पूर्वं प्रजासु रोगप्रचयं द्वितीयम् ॥

काले वृष्टि: यदि भवेत् तर्हि सर्वे कृषीवला: सन्तुष्टा: भवेयु: । अकालवृष्टि न इच्छन्ति ते । यत: अकालवृष्टि: सस्यवृद्धिं नाशयति । किन्तु ‘अकालवृष्टि: भवतु’ इति इच्छां प्रकटयन्त: अपि भवन्ति केचन । ते सन्ति - वैद्या: । यत: अकालवृष्टि: रोगाणां वृद्धे: कारणम् । रोगेषु प्रवृद्धेषु एव खलु वैद्यानाम् आय: वर्धेत ?

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(वैद्यः)&oldid=15678" इत्यस्माद् पुनः प्राप्तिः