जयतु चिरं जयतु चिरम्...
दिखावट
जयतु चिरं जयतु चिरम्...
जयतु चिरं जयतु चिरं
गीर्वाणानां वाणीयम् ।
वेदान्तोदितमाशु दिशन्ती
मोक्षमार्गमतिरमणीयम् ।।
भावसुमधुरा वेदरूपिणी
धर्मकर्मगतमर्मबोधिनी ।
साधुतोषिणी भाग्यपोषिणी
वितरतु फलमिह सुखधानी ।।१।।
भारतबहुजनमनोहारिणी
भारतभाषाप्रभवकारिणी ।
भाववाहिनी काव्यमोहिनी
विलसतु कलरसपदवेणी ।।२।।
नीतिनियमचयतत्त्वजबोधिनी
मनिजनजीवनमार्गदर्शिनी ।
कीर्तिरूपिणी स्फूर्तिदायिनी
विहरतु मम हृदि सुरवाणी ।।३।।