सामग्री पर जाएँ

ध्येया धरणीयम्...

विकिसूक्तिः तः

ध्येया धरणीयम्...


   
जननीयम्, मम जननीयम्, भारतधरणीयम्
पावनचरितेयम्, श्रितजनवरदेयम्
सुरनुतचरणेयम् ॥

वेदबृंहिता शास्त्रमण्डिता दर्शनसम्पदियम्
ऋषिमुनिमहिता कविकुलगीता भूतलरत्नमिदम् ।
वसुदा वसुधा सर्वसवित्री शर्मदभूमिरियम्
पुण्यधरित्री ज्ञानशेवधिस्सकलैर्वन्द्येयम् ॥

निरुपमसत्त्वा विविधगुणाढ्या संस्कृतिसारेयम्
सरससरिद्भिस्तुङ्गभूधरैर्भूषितकायेयम् ।
सस्यसमृद्धा सुभगनिसर्गा न्यक्कृतनाकेयम्
बाहुबलेड्या बहुबलधर्ती धर्मविधात्रीयम् ॥

निर्मलचित्तैस्तन्वा विभवैस्सदा हि सेव्येयम्
हृदि धरणीया सुतैस्समस्तैरनन्यशरणेयम् ।
भगिनि, भ्रातः, सुहृद्वान्धवाः, पूज्या मातेयम्
रात्रिन्दिवमप्यविरतमनसा ध्येया धरणीयम् ॥


- जनार्दनहेगडे


"https://sa.wikiquote.org/w/index.php?title=ध्येया_धरणीयम्...&oldid=18300" इत्यस्माद् प्रतिप्राप्तम्