सामग्री पर जाएँ

नित्यमविरतं चलनीयं...

विकिसूक्तिः तः

नित्यमविरतं चलनीयं...


नित्यमविरतं चलनीयम् ।
नैजं कार्यं करणीयम् ।।
गगने यान्ति च तारकयूथश्चन्द्रभास्करावविरामम् ।
घूर्णति पृथिवी नित्यंस्वाक्षे , भवतु दिनं रजनीकामम् ।।
पवनः प्रवहति मन्दं सुखदः कार्ये तथैव रमणीयम् ।
नैजं कार्यं करणीयम् ।।

नित्यं कार्यं कुर्वन् कूर्मो, निजलक्ष्यं प्राप्नोति वरम् ।
अलसः शशकः सबलः सन्नपि लक्ष्याद् दूरं भवति परम् ।।
आलस्यं त्यज सङ्कल्पं कुरु, साफल्यं संवरणीयम् ।
नैजं कार्यं करणीयम् ।।

सागरवक्षसि धुनोति नौरिति झञ्झावातो हा कष्टम् ।
त्यजति साहसं नैव धीवरो, वृणोति विजयं प्राप्य तटम् ।।
दौर्बल्यं त्यज धैर्यं धृत्वा विपत्सागरे तरणीयम् ।
नैजं कार्यं करणीयम् ।।


- परमानन्दशर्मा


"https://sa.wikiquote.org/w/index.php?title=नित्यमविरतं_चलनीयं...&oldid=18346" इत्यस्माद् प्रतिप्राप्तम्