पठ्यतां हि संस्कृतम्...
दिखावट
पठ्यतां हि संस्कृतम्...
पठ्यतां हि संस्कृतं ज्ञायतां नु वाङ्क्षयम् ।
संस्कृतस्य पाठनाय दीयतां स्वजीवनम् ।।
प्रेमशुद्धिसम्प्लुतं त्यागसलिलवर्धितं
कष्टकोटिपावितं स्वार्थरहितचेष्टितम् ।
अचललक्ष्यकेन्द्रितं सकलशीलभूषितं
राष्ट्रधर्मरक्षणाय स्यान्मदीयजीवनम् ।। पठ्यताम् ..... ।।
परोपदेशवर्जकं परोपकारकारकं
द्वेषदोषनाशकं क्रोधमोहलोपकम् ।
स्नेहभावगुम्फितं क्षात्रवीर्यपूरकं
ऐक्यबन्धवर्धनाय स्यान्मदीयजीवनम् ।। पठ्यताम्
जातिभेदवारकं दीनदलितसेवकं
स्वाभिमानपोषकं सामरस्यसाधकम् ।
ज्ञानविनयसंयुतं विपुलगुणगणान्वितं
लोकशक्तिवर्धनाय स्यान्मदीयजीवनम् ।। पठ्यताम् .. ।।
जीवनस्य वाञ्छितं संस्कृतस्य वैभवं
मामकीनयौवनं संस्कृतार्थमर्पितम् ।
नैव किमपि शेषितं नास्ति किमपि काङ्गितं
संस्कृतप्रसारणाय स्यान्मदीयजीवनम् ।। पठ्यताम्
- चमूकृष्णशास्त्री