पश्यत विमले...
दिखावट
पश्यत विमले...
पश्यत विमले पक्षिगणान्
मृदुलसुशोभनपक्षधरान् ।
चातकसारसकाककपोत-
मयूरगणा इह नन्दन्ति ।।
मधुरं गायति कोकिलको रुचिरं नृत्यति बर्हिणः ।
सकुतूहलमिह पश्यति सर्वं का का कुर्वन् वायसः ।।
हरि ओं ! कथयति कादम्बो डूं डूं विलपति दात्यूहः ।
टुं टुं शब्दं कृत्वा गच्छति दार्वाघाटो रुचिराङ्गः ।।
गच्छति कुहरे कञ्जनः पृच्छति कुशलं खञ्जनः ।
कम्पितशीर्षशरारिर्गच्छति क्वा क्वा कुर्वन् कासारम् ।।
ध्यानं कुरुते बकराजो मौनं भजते शुकराजः ।
गगनं प्रति गतिवेगं कुर्वन् डयते गरुडः खगराजः ।।
सरसि सरति खलु सारसो मनसि वसति किल सारङ्गी ।
उषसि विहायसि सखिजनसहिता विविधविहङ्गा विहरन्ति ।।
केचन मधुरं विलपन्ति ह्यन्ये नितरां विलसन्ति ।
कलपिलकलकलबहुविधनिनदैः तोषितमित्थं मम चित्तम् ।।
- को. रणजित्