पायात्कुमारजनकः शशिखण्डमौलिः...

विकिसूक्तिः तः

पायात् कुमारजनकः शशिखण्डमौलिः
शङ्खप्रभश्च निधनश्च गवीशयानः।
गङ्गां पन्नगमहो धरतीह यो स
आद्यक्षरेण सहितो रहितोऽपि देवः॥

आद्यक्षरेण सहितः प्रतिपदम् आद्यक्षरयुक्तः देवः तन्नाम शिवः। आद्यक्षरेणरहितः प्रतिपदम् आद्यक्षरेण विहीनः देव तन्नाम विष्णुः पायात् रक्षेत्। शिवपक्षे अर्थः यथा-
कुमारजनकः- षण्मुखपिता
शशिखण्डमौलिः- चन्द्रस्य कलां शिरसि यः धृतवान् सः
शङ्खप्रभः- श्वेतवर्णयुक्तः (भस्मना)
निधनः- धनरहितः
गवीशयानः- गवीशः (वृषभः) वाहनं यस्य सः
गङ्गां (धरति)- जाह्नवीधरः
पन्नगं (धरति)- कण्ठे सर्पधरः

विष्णुपक्षे च अयमर्थः
मारजनकः- प्रद्युम्नपिता
शिखण्डमौलिः- मयूरस्य पिच्छं शिरसि यः धृतवान् सः
खप्रभः- आकाशवर्णयुक्तः
धनः- श्रीयुक्तः
वीशयानः- गरुडवाहनः
गाम् (धरति)- गोपालः
नगम् (धरति)- गोवर्धनधरः