सामग्री पर जाएँ

पावनबोधनवारिभिः...

विकिसूक्तिः तः

पावनबोधनवारिभिः...


   
पावनबोधनवारिभिः
संस्कृतलतिकां सिञ्चेम ।
विद्यां हृद्यां वितरन्तो
वरच्छात्रसन्ततिं तनुयाम ॥

वन्दितपण्डितत्यागफलं
ननु खादामोऽखिलमूलधनम् ।
शास्त्रीये पथि विचरन्तो
महनीयांस्तान् वरिवस्येम ॥

पदवीरमणी मोहयति
धार्मिकधिषणां वारयति ।
गीतागानं कुर्वन्तो निज-
कर्तव्यान्नहि विचलेम ॥

धीरहिमालयधैर्यगुणं
भीकरसागरगाम्भीर्यम् ।
धृत्वा हृदि ननु सुस्थिरतो
बहुक्लेशपर्वतान् वृणुयाम ॥


- डा. मुरलीधरशर्मा, तिरुपति


"https://sa.wikiquote.org/w/index.php?title=पावनबोधनवारिभिः...&oldid=18297" इत्यस्माद् प्रतिप्राप्तम्