सामग्री पर जाएँ

पुण्यपुरुष भारत...

विकिसूक्तिः तः

पुण्यपुरुष भारत...


भारतं पुण्यास्पदं भोः पुण्यपुरुष भारत ।
वन्दतां संसेवतां तां पुण्यभूमिं भारतम् ।।

त्यागशीलाद्भरतमुनितो राष्ट्रमेतत् भारतम् ।
शौर्यवान् दौष्यन्तिरासीत् तदिह देशो भारतम् ।
भ्रातृदेवाद्भरतनृपतेरेष देशो भारतम् ।
भासि निरताः पूर्वजा इह तद्धि देशो भारतम् ।।१।।

ज्ञानकिरणाः प्रथममुदिता ज्ञानभूमौ भारते ।
शूरवीरा रेजिरेऽत्र च कर्मभूमौ भारते ।
शक्तिमत्त्वं दृढमिहासीत् पुण्यभूमौ भारते ।
बुद्धसिद्धाश्शुद्धसत्त्वा बहव आसन् भारते ।।२।।

कर्मपूताश्शक्तिदूता उद्गता इह भारतात् ।
विमलकान्तिर्ज्ञानशाखा निस्सृता इह भारतात् ।
सत्यशान्त्योस्सत्प्रवृत्तिर्निर्गता इह भारतात् ।
विश्वजनता सर्वमलभत सर्वमित्रात् भारतात् ।।३।।


- जनार्दनहेगडे


"https://sa.wikiquote.org/w/index.php?title=पुण्यपुरुष_भारत...&oldid=18355" इत्यस्माद् प्रतिप्राप्तम्