सामग्री पर जाएँ

प्रवहतु नित्यं संस्कृतगङ्गा...

विकिसूक्तिः तः

प्रवहतु नित्यं संस्कृतगङ्गा...


प्रवहतु नित्यं संस्कृतगङ्गा
सत्यसनातनधर्मवृद्धये ।
तदर्थमस्मज्जीवनपुष्पम्
समर्पयामो निजकार्ये ।।

वयं मिलामः प्रतिसप्ताहम्
ग्रामे नगरे कार्यस्थाने ।
पठनपाठने व्यापृता वयम्
सुवर्धयामः सङ्घटनम् ।।

स्वाध्यायेन समेधयामहे
परम्परागतविज्ञानम् ।
हृदयपङ्कजं विकासयामः
संस्कृतपाठनयज्ञेन ।।

विवेकवाणी गुञ्जतु हृदये
सत्यभाषणं सरलजीवनम् ।
अविरतचलनं नियतमेलनम्
कार्यसाधकं भवतु सदा ।।


- प. नन्दकुमारः