प्रवहतु नित्यं हृदये हृदये...
दिखावट
प्रवहतु नित्यं हृदये हृदये...
प्रवहतु नित्यं हृदये हृदये
संस्कृतकावेरी महती।
दिव्यसनातनधर्मभारती
भव्यसंस्कृतेर्जीवधुनी ॥ १ ॥
संस्कृतसंस्कृतिसामरस्यवाक्
गेहे गेहे लसतु चिरम् ।
संस्कृतकार्यहिमालयशिखरं
कोणे कोणे भवतु नवम् ॥ २ ॥
त्यागसमर्पणनिस्स्पृहभावैः
कार्यकर्तृहृत्परिपूर्णम्।
संस्कृतविश्वमनन्तमुज्ज्वलं
कर्तुं नियतं प्रवर्त्तताम् ॥ ३ ॥
सङ्घे शक्तिः कलौ युगे ननु
मन्त्रोsयं चिरमस्माकम् ।
रमतां शास्त्रचिरन्तनधारा
विश्वबन्धुरसभावधरा ॥ ४ ॥
भारतमातुर्विश्वगुरुत्वे
संस्कृतवाणी मूलशिला ।
तत्त्वमिदं चिरमद्भुतमार्षं
संस्कृतकावेरी नयतात् ॥ ५ ॥
- उमामहेश्वरः