बहुच्छिद्रघटप्रदीपन्यायः

विकिसूक्तिः तः

बहुच्छिद्रयुक्ते घटे शापितस्य दीपस्य प्रकाशः सर्वेभ्यः तेभ्यः च्छिद्रेभ्यः बहिः प्रसरति तथा शरीरान्तर्वर्तिनः आत्मनः प्रकाशः इन्द्रियद्वारा बहिः प्रसरति । इति भावः ।

यथा – नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं

ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।

जानामीति तमेव भान्तमनुभात्येतत् समस्तं जगत्

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥

(दक्षिणामूर्ति स्तोत्रे शङ्कराचार्यकृते) सा. ३६३